|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.122. अध्यायः 122
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
फेनपस्य गोभक्तयुद्रेकसन्तुष्टाभिर्गोलोकादागतगोमातृभिः योगप्रभावेण शरीराद्वियोजनेन स्वलोकप्रापणपूर्वकं तस्मिन्कपिलानिश्चयनिवेदनम्॥ 1 ॥ ततः कपिलाभिर्यथाप्रतिज्ञं शृङ्गाघातादिना फेनपस्य कुणपशरीरविभेदनम्॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`भीष्म उवाच।
यास्तु गोमातरस्तस्य कामचारिण्य आगताः।
समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः॥ 13-122-1(86154)
अभिप्रशस्य चैवाहुस्तमृषिं पुण्यदर्शनाः।
गोलोकादागता वेद वृषगोमातरो वयम्॥ 13-122-2(86155)
सुप्रीताः स्म वरं गृह्ण यमिच्छसि महामुने।
यद्भि गोषु परां बुद्धिं कृतवानसि नित्यदा॥ 13-122-3(86156)
सुमित्र उवाच। 13-122-4x(7144)
प्रीतोस्म्यनुगृहीतोस्मि यन्मां गोमातरः शुभाः।
सुप्रीतमनसः सर्वास्तिष्ठन्ते च वरप्रदाः॥ 13-122-4(86157)
भवेद्गोष्वेव मे भक्तिर्यथैवाद्य तथा सदा।
गोघ्नाश्चैवावसीदन्तु नरा ब्रह्मद्विषश्च ये॥ 13-122-5(86158)
गोमातर ऊचुः। 13-122-6x(7145)
एवमेतदृषिश्रेष्ठ हितं वदसि नः प्रियम्।
एहि गच्छ सहाऽस्माभिर्गोलोकमृषिसत्तम॥ 13-122-6(86159)
सुमित्र उवाच। 13-122-7x(7146)
यूयमिष्टां गतिं यान्तु न ह्यहं गन्तुमुत्सहे।
इमा गावः समुत्सृज्य तपस्विन्यो मम प्रियाः॥ 13-122-7(86160)
भीष्म उवाच। 13-122-8x(7147)
तास्तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम्।
नित्युस्तमृषिमुत्क्षिप्य भार्गवं नभ उद्वहन्॥ 13-122-8(86161)
कलेवरं तु तत्रैव तस्य संन्यस्य मातरः।
निष्कृष्य करणं योगादानयन्भार्गवस्य वै॥ 13-122-9(86162)
सर्वं चास्य तदाचख्युः कपिलानां विचेष्टितम्।
यदर्थं हरणं गोभिर्गोलोकं लोकमातरः॥ 13-122-10(86163)
ततस्तु कपिलास्तत्र तस्य दृष्ट्वा कलेवरम्।
तथाप्रतिज्ञं शृङ्गैश्च खुरैश्चाप्यवचूर्णयन्॥ 13-122-11(86164)
ततः संछिद्य बहुधा भार्गवं नृपसत्तम।
युयुर्यत्रेतरा गावस्तच्च सर्वं न्यवेदयन्॥ 13-122-12(86165)
अथ गोमातृभिः शप्तास्ता गावः पृथिवीचराः।
अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः॥ 13-122-13(86166)
एवं कृतज्ञा गावो हि यता गोमातरो नृप।
ऋषिश्च प्राप्तवाँल्लोकं गावश्च परिमोक्षिताः॥' ॥ 13-122-14(86167)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः॥ 122 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-122-2 वेद विद्धि। ऋषे गोमातरो वयमिति थ.पाठः॥ 7-122-8 कपिलानां सुदारुणं सुमित्रवधप्रतिज्ञानं च श्रुत्वा॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|